International Journal of Leading Research Publication

E-ISSN: 2582-8010     Impact Factor: 9.56

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 6 Issue 4 April 2025 Submit your research before last 3 days of to publish your research paper in the issue of April.

रसतत्त्वस्य विश्लेषणम्

Author(s) गोविंद प्रसाद शर्मा
Country India
Abstract संस्कृतकाव्यशास्त्रस्य रसप्रस्थानं रसमेव काव्यस्यात्मानमङ्गीकरोति । आनन्दपर्यायरूपरसो वेदेषु प्रयुक्तोऽयम् - रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति । अत्र आनन्दरूपं ब्रह्मैव रसः, तदवाप्तौ चानन्दोपलब्धिः भवति। रसस्य सर्वोच्चसुखवाचकत्वं प्रसिद्धमेव। अधुना उपलभ्यमानो रससिद्धान्तो नाट्यशास्त्रकारभरतेन प्रवर्तितः । सम्पूर्णं नाट्यवाङ्मयमेव तेन रसात्मकं प्रतिपादितम्। रसादृते कथमपि नाट्यस्य न प्रवृत्तिरिति भरतस्याभिमतम्।
आचार्यभरत एवेदम्प्रथमतया एतद्रससूत्रेण रसस्य विभिन्नानां घटकानां निर्देशं करोति। भरतेन यनाट्यशास्त्रस्य षष्ठाध्याये रससूत्रं निर्दिष्टम् “विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिरिति।”इह रसस्य कारणाद्युपन्यासो विद्यते। स्वयं नाट्यशास्त्रकारेण विभावादिस्वरूपं विवेचितम्। वासनारूपतयातिसूक्ष्मरूपेणावस्थितानि रत्यादीनि स्थायिन: विभावयन्ति आस्वादयोग्यतां नयन्तीति विभावाः। स तु आलम्बनोद्दीपनरूपेण द्विविधः प्रोक्तः -
बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयाश्रयाः।
अनेन यस्मात् तेनायं विभावः परिकीर्तितः ॥
आलम्बनं स तु रसो यमालम्ब्य प्रवर्तते।
उद्दीप्यते रसो येन स चोद्दीपनसञ्ज्ञकः॥
रत्यादीनि स्थायिन: अनुभावयन्ति अनुभवं विषयीकुर्वन्तीति अनुभावाः । स्थायिभावाननुभावयन्तः कटाक्षभुजाक्षेपादयो रसपोषकाः अनुभावाः कथ्यन्ते । यथाह दशरूपककारधनञ्जयः विकारस्तु भावसंसूचनात्मकः ।
विशेषेणाभिमत: रत्यादीनि स्थायिनः काये चारयन्ति सञ्चारयन्ति मुहुर्मुहुरभिव्यञ्जयन्तीति वा व्यभिचारिणः -
विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः।
स्थायिन्युन्मग्ननिर्मग्ना: कल्लोला इव वारिधौ॥
किन्तु रसस्य कथं निष्पत्तिः कथञ्च विभावादीनां संयोग इत्याधिकृत्य विभिन्नानि मतानि कालान्तरे प्रचालितानि। तेषु मीमांसादर्शनमाश्रित्य भट्टलोल्लटस्य रसोत्पत्तिवादः, न्यायदर्शनमाश्रित्य शङ्कुकस्य रसानुमितिवादः, साङ्ख्यदर्शनमाश्रित्य भट्टनायकस्य रसभुक्तिवादस्तथा वेदान्तदर्शनमाधृत्याभिनवगुप्तस्य रसाभिव्यक्तिवादः एतानि चत्वारि मतानि विख्यातानि । शोधपत्रेऽस्मिन् एनानि मतानि मीमांस्यन्ते काव्यस्यात्मा च विचार्यते।
भट्टलोल्लटानुसारं रसस्य उत्पत्तिः अनुकार्ये रामादौ अनुकर्तरि नादौ च सञ्जायते। अभिनयादिकाले रामादिगतायाः सीतादिविषयिण्या: रते: अविद्यमानतायामपि नटे विद्यमानरूपतया तस्या: प्रतीतिः भवति। अनया प्रतीत्या सहृदयेषु चमत्कारानुभूतिरूपं कार्यमुत्पद्यते । परन्तु सम्प्रति अविद्यमानस्य रामादेः अनुकार्यस्य अप्राप्तेः प्रधानतया तस्मिन् रामादौ तथा गौणरूपेण नटे रसोत्पत्तिः इति कथनमसमीचीनं मत्वा एतत् मतमुपेक्ष्यम्। अत्र निष्पत्तिरेवोत्पत्तिः संयोगश्च उत्पाद्योत्पादकभाव:। भावोऽयं स्थायिभावस्य गम्यगमकभावरूपात् व्यभिचारिणा च पोष्यपोषकभावरूपात् सम्बन्धात् रसस्य निष्पत्ति: किंवा उत्पत्ति:, प्रतीतिः पुष्टिश्च भवति । शङ्कुकमतेन नटे रामस्य प्रतीति: चित्रतुरगन्यायेन सञ्जायते। एषा प्रतीतिर्दर्शनशास्त्रप्रतिपादितसम्यङ्-मिथ्या-संशय-सादृश्येति चतुर्विधप्रतीतिभ्यो विलक्षणा। अत्र सामाजिको नटस्य अभिनयादिकौशलत्वात् स्थायिभावं तस्मिन् एवानुमिनोति। सामाजिकेषु विद्यमानया वासनयानुमितिसाहाय्येन रसानुभूति: जायते। किन्तु रसस्य अनुभूयमानन्दस्वरूपस्य प्रत्यक्षो बोधो भवतीति सकलसहृदयसंवेदतया रसस्वरूपस्य अनुमित्या अनुभूतेः नौचित्यं प्रतिभाति। अनुमाप्यानुमापकभावश्च संयोगः।
भट्टनायकानुसारेण स्थायिभावस्य विभावादिभिः भोज्यभोजकभावरूपसम्बन्धात् रसस्य निष्पत्ति: (भुक्तिः) भवति। अत्र काव्ये नाट्ये चाभिधातिरिक्तं व्यापारद्वयपि मन्यते - भावकत्वं भोजकत्वञ्च। इहाभिधाव्यापारेण विभावादीनां साधारणीकरणं भवति। साधारणीकरणत्वात् व्यष्टिगतवैशिष्ट्यादेः अभावो दृश्यते। ततश्च भोजकत्वव्यापारेण पूर्वतः साधारणीकृताया एव रत्यादेः स्थायी भावो भुज्यते । वादेऽस्मिन् काव्यशास्त्रभिन्नौ भावकत्वभोजकत्वव्यापारौ द्वौ व्यापारौ कल्पितौ। अत्र स्थायिभावस्य यः भोगः स्वीक्रियते सः रामादिगतः, नटादिगतः किंवा सामाजिकगतः इति न स्पष्टं भवति । अस्मिन् मते भुक्तिरेव निष्पत्ति: संयोगश्च भोज्यभोजकभावः ।
अभिनवगुप्ताचार्यस्य मते ये रत्यादिस्थायिनो भावा: जन्मान्तरीयाः सहृदयेषु वासनारूपेण सुषुप्तावस्थायां निरन्तरसन्निहिताः ते विभावादिसम्पर्कभवाप्य उद्बुध्यन्ते। अस्यामवस्थायां विभावादयो ममैव सन्ति, शत्रोः उदासीनस्य अथवा एते न मम, न शत्रोर्न वा उदासीनस्य विद्यन्ते इति निश्चेतुं न पारयन्ति सहृदयाः । इत्थमनिश्चयवशात् साधारण्येन स्थायिनोऽभिव्यक्तिः जायते, सहैव विभावादीनाञ्च प्रतीति: सञ्जायते। अत्र सम्बन्धविषेशस्य परिहारो भवति। वादेऽस्मिन् अभिव्यक्तिरेव निष्पत्ति: विद्यते। संयोगस्याभिप्रायो व्यङ्ग्य-व्यञ्जकसम्बन्धो अभिव्यक्तिवादसिद्धान्ताऽयं वर्तते।
काव्यशास्त्रिणोऽभिव्यक्तिवादं बहुमन्यमाना रसविश्लेषणं कृतवन्तः। मम्मटभट्टाचार्येण काव्यप्रकाशे तदेव मतं संस्थापितम्। तथाहि -
कारणान्यथ कार्याणि सहकारीणि यानि च।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः॥
विभावाअनुभावास्तत् कथ्यन्ते व्यभिचारिणः।
व्यक्त: स तैर्विभावाद्यैः स्थायिभावो रसः स्मृतः ॥
यद्यपि भरतप्रभृतय: आचार्याः रसस्य नाट्ये एव महत्त्वं स्थानं च निर्दिशन्ति तथापि काव्यशास्त्रकाराः मम्मटादयः काव्ये नाट्ये चोभयत्र रसस्य स्थानमभ्युपगच्छन्ति। विभावाद्यैः कारणादिभिः सामाजिकानां हृदये स्थितः स्थायिभावा रत्यादिः प्रकाश्यते, व्यञ्जनाव्यापारेण आनीयते । तथा च शृङ्गारादिको रसः भवति। विभावादयः उपस्थिताः सन्त एव रसं प्रकाशयन्ति। सामान्ये संसारे रत्यादेः स्थायिनः कारणादयः एव नाट्यार्पिताः काव्यार्पिता वा विभावादयो भवन्ति । तैरेव अभिव्यक्तः व्यञ्जनयानुभवविषयीभूतः इत्यादिरेव शृङ्गारादिरसो जायते । विभावाः कारणानि सन्ति नायकनायिकोद्यानादिरूपाः । अनुभावाः कटाक्षभुजाक्षेपादिरूपाः कार्याणि भवन्ति, निर्वेदादयः व्यभिचारिणः सहकारिकारणानि भवन्ति । एवं रसो विभावादिजीवितावधिः कथ्यते। तेषामभावे रसो न जायते ।
रसोऽलौकिक आनन्दो भवति । अतः रसबोधनकाले लौकिकी सीमा न जायते। ये केचन भावा: सुखात्मका: दुःखात्मकाश्च सन्ति तेऽपि काव्यार्पिताः नाट्यार्पिताश्च आनन्दरूपा एव भवन्ति इति तेषां रसात्मकत्वम्।
आचार्यभरतेनाष्टावेव रसाः स्वीकृताः । ते च सर्वथा मनसोऽवस्थाभिः समन्विताः । चित्तस्य विकासेन शृङ्गारः, विस्तारेण वीरः, क्षोभेण बीभत्सः, विक्षेपेण च रौद्रो रसो जायते। एते चत्वारः प्रकृतिरसाः सन्ति । तेभ्यः एव क्रमशो हास्य- अद्भुत- भयानक-करुणरूपा रसा: जायन्ते। यथाह दशरूपककार-धनञ्जयः
विकासविस्तरक्षोभविक्षेपैः स चतुर्विधः ।
शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् ॥
हास्याद्भुतभयोत्कर्षकरुणानां त एव हि।
अतस्तज्जन्यता तेषामत एवावधारणम्॥
शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणो रसः।
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः॥
काव्यप्रकाशे स्वस्वस्थायिभावसहिताः अष्टावेव रसाः वर्णयन्ते। आधुनिका आचार्याः शान्तमपि नवमं रसं स्वीकुर्वन्ति। यथोक्तम् मम्मटेन -
शृङ्गार - हास्य - करुण - रौद्र - वीर - भयानकाः ।
बीभत्सा-द्भुतसञ्ज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः॥
रतिर्हासश्च शोकश्च क्रोद्धोत्साहौ भयं तथा।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥
निर्वेदस्थायी भावोऽस्ति शान्तोऽपि नवमो रसः।
केचित्तु भक्तिरसं वात्सल्यरसञ्च स्वीकुर्वन्तः मनोविज्ञानसमर्थितानां रसानां सङ्ख्या वर्धयन्ति ।
रसः काव्योपादानेषु प्राधान्यमर्हति न वेति प्रश्नो विचारणीयः । नूनमेव गुणालङ्काररीतयः काव्यपदार्थाः रसेभ्यो न्यूनतरा एव । रसः काव्यस्योत्कर्षं जनयति, काव्यमुत्तमस्थानीयं करोति। रसे निमग्नाः जनाः वास्तविकं काव्यानन्दं लभन्ते। रसेन आत्मविस्मृतिर्जायटे अपूर्वानन्दस्यावाप्तिश्च भवति। अतएव केचिदाचार्याः रसं काव्यस्य प्रधानभूतं तत्त्वमित्यभ्युपगच्छन्ति। नाट्यशास्त्रकारो भरताचार्यः कथयति - ' न हि रसादृते कश्चिदर्थः प्रवर्तते।' भरतस्याभिनिवेशो नाट्यात्मके काव्य एव विद्यते, यतः नाट्यं रसं विना न सम्भवति । सर्वं दृश्यकाव्यं रसमाश्रयते मुख्यत्वेन। धनञ्जयोऽपि भणति - 'दशधैव रसाश्रयम् 10 अर्थात् रूपकं दशविधं भवति, सर्वञ्च तद् रसपूर्णम् । भवतु नाम दृश्यकाव्यं रसात्मकम्, किन्तु श्रव्यकाव्यं रसात्मकं सर्वं भवेदिति विप्रतिपत्तिः ।
अग्निपुराणेऽपि रसस्य काव्यप्राणत्वं ‘वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम् ' । 1 1 अनेन रसस्य प्राणात्मकत्वं ज्ञायते यद्यपि काव्ये वाग्वैदग्ध्यं मुख्यमुपादानम् । साहित्यदर्पणकारविश्वनाथ: 'वाक्यं रसात्मकं काव्यम्' 12 इति काव्यं लिलक्षयिषुः रसरहितस्य शब्दार्थयुगलमात्रस्य काव्यत्वं नैव स्वीकरोति। मम्मटाचार्योऽपि यद्यपि रसं प्रति विशेषेणाभिनिविष्टः, तथापि न रसरहितस्य काव्यत्वे उदासीनः । काव्यप्रकाशे दोषनिरूपणप्रसङ्गे आचार्यः कथयति - 'मुख्यार्थहतिर्दोषो रसश्च मुख्य: 13 इति । अनेन ज्ञायते यद् रसवादी सन्नपि मम्मटाचार्यो न विश्वनाथादिवत् रसाभावे काव्यमेव न स्यादिति इति मन्तुमनाः । तथाहि ध्वनिं विना चित्रात्मकमपि काव्यं स स्वीकरोति ‘शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्' 14। विश्वनाथमतेन तु न चित्रकाव्यं काव्यपदमर्हति।
अत्र विचारणीयं यद् रसं विना काव्यं भवेन्न वेति व्यवहारेऽनेकानि पद्यानि काव्येषु लभ्यन्ते यत्र नैव रसः । पद्यसमूह व विभावादिपरिपूर्णे रसस्य सम्भावना भवति । दीर्घकाले काव्ये नाट्ये वा रसस्य विस्तारः सम्भवति । कदाचिदेव एकपद्यात्मके मुक्तककाव्ये रसोपस्थितिर्भवति । अतएव रसात्मकस्यैव काव्यस्य काव्यत्वे तथाभूतानि रसरहितानि पद्यानि काव्यान्तर्गतानि न भविष्यन्ति। प्रकृतिवर्णनेऽपि रसस्य प्रायेणाभावः। तत्रोद्दीपनरूपमेवावलम्बनं सम्भवति न तु विभावादयः साकल्येन लभन्ते। किं निसर्गवर्णनपराणि पद्यानि काव्यत्वं नार्हन्ति? व्यवहारे तु तानि काव्यान्येव कथ्यन्ते । अतः सर्वस्य काव्यस्यात्मा रस इति कथयितुं न शक्यते। रसेन काव्यस्य उत्कर्षो भवति, किन्तु 'रसं विना काव्यमेव न सम्भवति' इति मतं नैव शोभते ।
वस्तुतो रसवादिनामाचार्याणां काव्यविषयिकी धारणा उत्कृष्टं काव्यमेवोद्दिश्य प्रवर्तते । कावयस्य सामान्यधारणा ते नाभिभूताः सन्ति। काव्यस्य द्विविधं रूपं सर्वथा ग्राह्यमासीत् - रसयुक्तं काव्यम् रसरहितञ्च। तयोः प्रागुत्कर्षं भजते श्रेष्ठञ्च परिगण्यते। रसविहीनं तु शब्दार्थयुगलं काव्यसञ्ज्ञया प्राचीनपरम्परायामभिहितमिति तदपि काव्यमेव स्वीकृतम्।
सन्दर्भ-सङ्केत
1. तैत्तिरीयोपनिषद् 2.7
2. नाट्यशास्त्रम् 6.32
3. तत्रैव 7.409-410
4. दशरूपकम् 4.3
5. तत्रैव 4.7
6. काव्यप्रकाश: 4.27-28
7. नाट्यशास्त्रम् 6.38-39
8. काव्यप्रकाश: 4.29-30
9. नाट्यशास्त्रम् 6.32
10. दशरूपकम् 1.7
11. अग्निपुराणम् 337.33
12. साहित्यदर्पण: 1.1
13. काव्यप्रकाशः 7.49
14. तत्रैव 1.5
Keywords .
Field Arts
Published In Volume 6, Issue 2, February 2025
Published On 2025-02-15
Cite This रसतत्त्वस्य विश्लेषणम् - गोविंद प्रसाद शर्मा - IJLRP Volume 6, Issue 2, February 2025.

Share this