International Journal of Leading Research Publication
E-ISSN: 2582-8010
•
Impact Factor: 9.56
A Widely Indexed Open Access Peer Reviewed Multidisciplinary Monthly Scholarly International Journal
Plagiarism is checked by the leading plagiarism checker
Call for Paper
Volume 7 Issue 6
June 2026
Indexing Partners
वेदेषु गवां महत्त्वम्
| Author(s) | डॉ. गुंजन गर्ग |
|---|---|
| Country | India |
| Abstract | - वेदो विश्वस्य सर्वप्राचीनतमं वाङ्मयमस्ति। वेदो एव आर्यसंस्कृतेः आधारशिला अक्षयनिधिभंडारः चास्ति। वेदेषु प्राचीनकालात् आधुनिककालपर्यन्तं सर्वविधविषयाणां संग्रहो वर्तते। वेदेषु विविधसूक्तेषु गवां महिमा वर्णिता। अत्र गौः मानवानां धनं बलं श्रेष्ठान्नं मता। तत्र गवां दुग्धदधिघृतसेवनेन रोगनिवारणवर्णनं प्राप्तम्। आर्यपरिवास्य समृद्धिः गोभिरेवासीत्। वैदिकसाहित्ये गवां विविधानि कर्की, शुक्रा, पृश्नी, कृष्णा, रोहिणी, गृष्टिः धेनुश्चेत्यादीनि नामानि प्राप्यन्ते। तत्र गोशालायां गवां कृते पर्याप्तं स्थानं जलमन्नं प्रकाशं च भवेत्। तत्र विविधमंत्रेषु गोदानवर्णनं कृतम्। अत्र गौः अवध्या उक्ता। वैदिकयुगे सर्वत्र गोसंरक्षणं प्राप्तम्।। मुख्यबिन्दवः - वेदः,ऋग्वेद, यजुर्वेदः, अथर्ववेदः,ऋषिः, गौः, आर्यपरिवारः, गोघृतम्, गोदानम्, गोमहोत्सवः, गोपालकः यज्ञकर्मणश्च इत्यादयः। वेदो विश्वस्य सम्पूर्णज्ञानस्याधारोऽस्ति। अयं प्राचीनतमं वाङ्मयमस्ति यत् अनादिकालात् शाश्वत् सनातनश्च वर्तते। भारतीयपरम्परायां वेदस्य प्रामाण्यं सर्वैः संप्रदायैः समानरूपेण स्वीकृतम्। वेदो एव आर्यसंस्कृतेः आधारशिला अक्षयनिधिभंडारः चास्ति। मानवस्य कल्याणार्थं यः कोऽपि धर्मः प्रवर्तितोऽभवत् तस्याधारोऽपि वेद एव। उक्तं च महर्षिमनुना - वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनस्तुष्टिरेव च।। यः कश्चित् कस्यचिद् धर्मो मनुना परीकीर्तितः। स सर्वोऽभिहितो वेदे। सर्वज्ञानमयो हि सः।। यथोक्तं च महाभारते - अनादिनिधना नित्या वागुत्कृष्टा स्वयंभुवा। आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः।। मंत्रप्रत्यक्षदर्शिभिः ऋषिभिः यत् ज्ञानम् अलभत् तत् वेदो एव। वेदः धर्मकामार्थमोक्षपुरुषार्थचतुष्ट्यस्य आधारः वर्तते। वेदेषु प्राचीनकालात् आधुनिककालपर्यन्तं सर्वविधविषयाणां संग्रहो वर्तते। वेदेषु अनेकमंत्रेषु गवां महत्त्वं वर्णितम्। तत्र गावः यज्ञकर्मणः अन्यधार्मिकृत्यानां श्राद्धादिकर्माणां प्रमुखाधाराः आसन्। गोमहिमा - वेदेषु विविधसूक्तेषु गवां महिमा वर्णिता। गौ विराट् ब्रह्म इति रूपेण मता। तस्यां सर्वे देवाः समाहिताः। यथा - एतद् वै विश्वरूपं सर्वरूपं गोरूपम्। गौः सौभाग्यस्य प्रतीको इंद्रस्य प्रतिनिधिः प्रथमस्य सोमस्य भक्षः अमन्यत् - गावो भगो गाव इन्द्रो म अच्छान् गावः सोमस्य प्रथमस्य भक्षः। ऋग्वेदस्य षष्ठमंडलस्य अष्टाविंशतितमे सूक्ते अष्टमंत्रेषु गोमहिमा उक्ता, यथा - आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे। प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पुर्वीरूषसो दुहानाः।। अत्र ऋग्वेदे देवेभ्यः गवाश्वपुत्रधनादयः याचिताः। अत्र गवां महत्त्वं प्रमुखरूपेण उल्लेखितम् - माता रूद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः। प्रनु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट।। अथर्ववेदे चतुर्थकाण्डस्य एकविंशतितमे सूक्ते षड्मंत्रेषु गवां स्तुतिः कृता। अत्र गौः मानवानां धनं बलं श्रेष्ठान्नं मता। गवां प्रशंसायां कथितं यत् गावः कृशकायं तेजविहीनं जनं स्वदुग्ध्वा पोषणं कृत्वा बलिष्ठं रूपवन्तं कुर्वन्ति। गावः स्वमधुररवैः अस्माकं गृहाणि मड्.गलानि कुर्वन्ति। अतः सभायां गवां यशोगानं कथ्यते यत् - यूयं गावो मेदयथा कृशं चिद् अश्रीरं चित् श्रुणुथा सुप्रतीकम्। भद्रं गृहं कृणुथ भद्रवाचो, बृहद् वो वय उच्यते सभासु।। गोषु वर्चः तेजः भगः यशः पयः चेत्यादयः समाविष्टाः। उक्तं च - वर्चो.... तेजो.... भगो.... यशो.... गोषु प्रविष्टम्। अथर्ववेदस्य एकस्मिन् मंत्रे रोहिण्याः (धेनोः) दुग्धदधिघृतसेवनेन हृदयरोगपाण्डुरोगनिवारणस्य उल्लेखः प्राप्तः, यथा - अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते। गोरोहितस्य वर्णेन तेन त्वा परि दध्मसि।। वेदिकाकाले यज्ञकार्ये गोघृतस्य प्रयोगः प्राचुर्येण अभवत्। एतस्मात् कारणात् वेदेषु घृतस्य वर्णनं लभते। अथर्ववेदस्य एकस्मिन् मंत्रे त्रिलोकदेवादयः धेनोः रक्षिताः उक्ताः, यथा- यया द्यौर्यया पृथिवी ययापो गुपिता इमाः। वशां सहस्रधारां ब्रहमणाच्छावदामसि ।। गवां विविधनामानि - आर्यपरिवास्य समृद्धिः गोभिरेवासीत्। राजानः ऋषयः आर्यजनाः च सर्वे जनाः गवां पालनं पोषणम् अकुर्वन्। सहस्राणि गावः अभवन् राज्ञां ऋषीणां पार्श्वे तु। वैदिकसाहित्ये गवां विविधानि नामानि प्राप्यन्ते। तत्र श्वेतवर्णां गां कर्की शुक्रा च, चित्रलां पृश्नी, कृष्णवर्णां कृष्णा, रक्तवर्णां च रोहिणी , प्रथमसन्तानोत्पादिकां गृष्टिः , दुधां गां धेना धेनुः च नामानि लभन्ते। तत्र गवां त्रिविधा जातिः उल्लेखिताः। यथा –विलप्ती, सूतवशा वशा च। यथोक्तम् - त्रीणि वै वशाजातानि विलप्ती सूतवशा वशा। वैदिककाले गवां कर्णाः चिह्निताः अङ्किताः च क्रियन्ते स्म। तस्मात् कारणात् ताः गावः विविधानि नामानि धार्यन्ते स्म। यथा ऋग्वेदे गौः अष्टकर्णी उक्ता - सहस्रं मे ददतो अष्टकर्ण्यः। अथर्ववेदे तु मन्यते यत् यदि गवां कर्णेषु संख्या अङ्किताः तर्हि तासां प्रसवयोग्यता दुग्धोत्पादिका शक्तिः च वर्धेते, यथा- लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि।। अर्थर्ववेदे तु अनेकत्र गवां कर्णछेदनं कृत्वा अङ्कनं प्रथा प्राप्ता। एवमेव मैत्रायणीसंहितायां कर्करिकर्णी, दात्रकर्णी, स्थूणाकर्णी, छिद्रकर्णी, विष्टकर्णी चेत्यादयः गावः वर्णिताः। दिवसे गाः त्रिवारं दुदुहुः तासां प्रातर्द्रोहः संगवः सायंदोहः नामानि उक्ताः। गोशाला :- अथर्ववेदे गोशाला इत्यर्थे व्रजशब्दस्य प्रयोगोऽभवत्। यथा- व्रजं कृणुध्वं स हि वो नृपाणो। व्रजार्थं ‘गोष्ठ’ इति पदोऽपि प्रयुक्त। यथा- शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत | यजुर्वेदे गोशालायाः कृते ‘गोष्ठान’ इति शब्दप्रयोगोऽभवत्। अथर्ववेदे एकः सम्पूर्णसूक्तः गोशालावर्णनमेव करोति। तत्र गवां कृते सुविधापूर्णा सुरक्षिता गोशाला भवेयुः एवमेव वर्णनं प्राप्यते। तत्र गोशालायां गवां कृते पर्याप्तं स्थानं जलमन्नं प्रकाशं च भवेत्। तत्र गवां कृते दिवावत् रात्र्यामपि समुचिता व्यवस्था भवेत्। तत्र ताः गावः भयमुक्ताः नीरोगाः दीर्घायुसम्पन्नाः निवसेयुः। यथा - संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः। बिभ्रतीः सोम्यं मध्वनमीवा उपेतन।। ऋग्वेदे गोचरभूम्यर्थं गव्यूतिः शब्दः प्रयुक्तः - परा मे यन्ति धीतयो गावो न गव्यूतीरनु। इच्छन्तीरुरुचक्षसम्।। गोदानम् :- वेदेषु गोदानं विशिष्टं वर्तते। तत्र विविधमंत्रेषु गोसहस्रम् अददात्। कतिपयमंत्रेषु गोधनं दानवर्णनं प्राप्यते, यथा - त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः। यन्तारो ये मघवानो जनानामूर्वाम् दयन्त गोनाम्।। अर्थात् हे स्वाहुत अग्ने! यथा विद्वज्जनाः तव प्रियाः तथैव गोदातारः अपि प्रियाः भवेयुः। ऋग्वेदस्य प्रथममण्डलस्य पन्चविंशत्यधिकशततमे षड्विंशत्यधिकशततमे च सूक्तयोः राज्ञा स्वनयेन कक्षीवान् इति ऋषये स्वदशकन्याः अश्वगोभृत्यधनादयः सम्पत्तयः दत्ताः। गोमहोत्सवः - वैदिककाले वृहदाकारे गोमहोत्सवाः आयोजिताः। यस्मिन् गवामनु गोपालशतं गच्छन्ति स्म, यथा- शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः। ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा।। गोरक्षा - गोपालकैः गावः रक्षिताः। ऋग्वेदस्य अनेकमंत्रेषु वर्णनं प्राप्यते यत् कोऽपि गां न चोरयेत्, कोऽपि हिंसको पशुः गां न हिंसेत्, ताः गावः न लुप्ताः, कूपे न पतेयुः। अथर्ववेदेऽपि गोरक्षणं कृतम्। तत्र कथितं यत् ताः गावः न नष्टाः भवेयुः, न चौराः ताः गाः चौरयेयुः, न शत्रवः ताः गाः विनाशयेयुः। गोपतिः याभिः गोभिः देवयजनं दानं च करोति सः चिरेण ताभिः युक्तः भवेत्, यथोक्तम्- न ता नशन्ति न दभाति तस्करो नासाममित्रो व्यथिरा दधर्षति। देवांश्च याभिर्यजते ददाति च ज्योगिताभिः च ते गोपतिः सह।। मानवाः गवाश्वधनधान्यवृद्धयै पुरुषार्थी इव पुरुषार्थाः करणीयाः। अथर्ववेदस्य एकस्मिन् मंत्रे गवां मङ्गलयाचना कृता - प्रजावती सूयवसे रूशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः। मा व स्तेन ईशत माधशंसः परि वो रुद्रस्य हेतिर्वृणक्तुः।। गोहनननिषेधः - ऋग्वेदे गोहन्ता समुदायात् बहिष्कृतः निर्दिष्टाः, यथा - आरे ते गोघ्नमुत। अत्र गौः अवध्या उक्ता, यथोक्तम् - मा गामनागामदितिं वधिष्ट।। यजुर्वेदे गोगवयादिपशुनां हिंसानिषेधः कृतः, यथा – म हिंसीर्द्विपादं पशुम्। अर्थर्ववेदेऽपि गौः अघ्न्या मता। अत्र गवाश्वनिरपराधजनानां वधस्य निषेधः प्राप्तः - अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः। अत्र यो कोऽपि गां हन्ति सः दण्डं प्राप्नोति, यथा - यदि नो गां हंसि यद्यश्वं यदि पूरुषम्। तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा।। अत्र यः गां पादेन स्पृशति तस्यापि निषेधोऽस्ति - यश्च गां पदा स्फुरति प्रत्यङ् सूर्यं च मेहति। तस्य वृश्चामि ते मूलं न च्छायां करवोऽपरम्।। इत्थमेव वेदेषु गोमहिमा वर्णिता। अत्र गावः यज्ञकर्मणः प्रमुखाधाराः, अतः ताः देवतुल्याः मन्यन्ते स्म। आर्यजीवने गौः समृद्धिद्योतकः आसीत् तत्र सा अनिवार्यासीत्। वैदिकयुगे सर्वत्र गोसंरक्षणं प्राप्तम्।। |
| Keywords | . |
| Field | Arts |
| Published In | Volume 3, Issue 1, January 2022 |
| Published On | 2022-01-08 |
Share this

CrossRef DOI is assigned to each research paper published in our journal.
IJLRP DOI prefix is
10.70528/IJLRP
Downloads
All research papers published on this website are licensed under Creative Commons Attribution-ShareAlike 4.0 International License, and all rights belong to their respective authors/researchers.